श्रीजीवन्यायतीर्थविरचितस्य दरिद्रदुर्दैवप्रहसनस्य नान्दीविवेचनम् एकं विश्लेषणात्मकमध्ययनम्

Authors

  • अमृता सिं ओराओ Author
  • डॉ. नुरिमा इयाच्मिन् Author

Keywords:

मङ्गलाचरणम्, दरिद्रदुर्दैवम्, प्रहसनम्, नान्दी,साहित्यदर्पणम्।

Abstract

           कार्यारम्भे मङ्गलाचरणं भारतीयसंस्कृतेः विशेषमेकम् अङ्गस्वरूपम्। दूरदेशं गमनात्पूर्वं भगवत्स्मरणं, गुरुजनानां पादस्पर्श: प्रभृति: ग्रन्थरचनारम्भे ईश्वरं स्तुति: निवेदनम्, अपितु सामान्यतया पत्ररचनात्पूर्वमेव  संक्षेपेन मङ्ग‌लवाचकः 'श्रीः' इत्यादि : शब्दस्योल्लेखः वर्तमानेपि  प्रचलितमस्ति। नाट्यवस्तु: अभिनयात्पूर्वं कुशीलवाः अर्थात् नटनट्या: रङ्ग‌विघ्नं निराकरणार्थं यत् स्तुतिपाठादि क्रियते तदेव पूर्वरङ्ग: इत्युच्यते। अस्य पूर्वरङ्गस्य वहव: अङ्गाः सन्ति,धनञ्जय: मतानुसारेण पूर्वरङ्गः द्वाविंशतिः संख्यकाः सन्ति। तन्मध्ये प्रमुखोऽस्ति 'नान्दी', रङ्ग‌विघ्नशान्ताय नान्दीकरणम् अवश्यमेव कर्तव्यम् 'नान्दि' धातोः उत्तरम् 'अच्' प्रत्सयेन 'नन्द' भवति, तदनन्तरं 'नन्द' शब्दस्योत्तरं 'प्रज्ञादिभ्यश्च' सूत्रानुसारेण स्वार्थे 'अण्' प्रत्ययेनापिश्च स्त्रीलिङ्गे 'ईप्' इति प्रत्ययेन 'नान्दी' शब्द: निष्पद्यते। अस्मिन् शब्दस्य अर्थोऽस्ति 'आह्लाददायिनी'। पुन: केचन: वदन्ति 'नन्द + घञ्'- नन्दनं, तेन पठ्यते या इति नान्दी। नान्दीति शब्द:  सार्थकनामा भवति। इष्ट विषये यत्कामना तदेव आशीः इति उच्यते। येन आशीर्वादवाक्येन स्वकीयस्योपरस्य च कामना पूर्तिः भवति, येन वाक्येन नटा:, देवता:,ब्राह्मणा:,राज्ञाम् च स्तुयते, अपितु आचार्य:, गुरुणामपि स्तुतिः कर्तुं शक्यते, एनं स्तुतिवाक्यं देवतानां कृते आनन्द‌विधाने उपयोगीश्चेत् नान्दी नाम्ना ज्ञायते। अतः अयं शोधप्रबन्धे कविश्रीजीवन्यायतीर्थविरचितं दरिद्रदुर्दैवप्रहसने नान्दीविवेचनं मया उपस्थापितम्।

Author Biographies

  • अमृता सिं ओराओ

    विद्यावारिधिः अनुसन्धात्री, कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयः, नलबारी, असमप्रदेशः, पत्रवाहनसङ्ख्या : 781337

  • डॉ. नुरिमा इयाच्मिन्

    सह-प्राध्यापिका, कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयः, नलबारी, असमप्रदेशः, पत्रवाहनसङ्ख्या : 781337

Downloads

Published

2025-11-01

Issue

Section

Articles

How to Cite

श्रीजीवन्यायतीर्थविरचितस्य दरिद्रदुर्दैवप्रहसनस्य नान्दीविवेचनम् एकं विश्लेषणात्मकमध्ययनम्. (2025). Shodh Patra: International Journal of Multidisciplinary Studies, 2(1), 725-731. https://shodhpatra.in/index.php/files/article/view/84

Similar Articles

1-10 of 49

You may also start an advanced similarity search for this article.

Most read articles by the same author(s)