कात्यायनस्य सर्वानुक्रमण्याः विषयवस्तु (Subject Matter of Kātyāyana's Sarvānukramaṇī)
Keywords:
कात्यायनः, सर्वानुक्रमणी, ऋग्वेदः, अनुक्रमणी, वेदाङ्गम्, ऋषिः, देवता, छन्दःAbstract
कात्यायनस्य सर्वानुक्रमणी ऋग्वेदस्य प्राचीनतमा च सर्वाधिकव्यापिका अनुक्रमणी अस्ति। षड्वेदाङ्गानां मध्ये छन्दःशास्त्रस्य प्रतिनिधिरूपा इयम् अनुक्रमणी ऋग्वेदस्य प्रत्येकं सूक्तस्य ऋषि-देवता-छन्दः-इत्यादीनां सूचिकां ददाति। अस्य ग्रन्थस्य मुख्यविषयः ऋग्वेदस्य रक्षायै तस्य बाह्यस्वरूपस्य आन्तरिकस्वरूपस्य च ज्ञानम्। प्रस्तुतः शोधलेखः सर्वानुक्रमण्या: ऐतिहासिकं महत्त्वं, प्रतिपाद्यविषयं, तस्यां निरूपितानां दशाङ्गानां विवेचनं, च आधुनिकानुक्रमणीभिः सह तुलनां करोति। मुख्यनिष्कर्षः अस्ति यत् सर्वानुक्रमणी विना ऋग्वेदस्य प्रामाणिकं अध्ययनं असम्भवम्।¹
