संस्कृतवाङ्मये चम्पूकाव्यपरम्परा
Keywords:
चम्पूकाव्यम्, गद्यपद्यशैली, मिश्रकाव्यम्, वैदिकवाङ्मयम्, उपनिषद्, पुराणम्, जातकमाला, प्रयागप्रशस्तिः, अग्निपुराणम्Abstract
संस्कृतवाङ्मये चम्पूकाव्यपरम्परा गद्य-पद्ययोः मिश्रशैल्याः उत्कृष्टतमं रूपं प्रदर्शयति। अस्याः शैलीयाः मूलं वैदिकवाङ्मये एव दृश्यते, विशेषतः कृष्णयजुर्वेदसंहितासु, ब्राह्मणग्रन्थेषु, उपनिषत्सु, पुराणेषु, जातकग्रन्थेषु, कथासाहित्ये, प्रशस्तिषु च। ऐतरेयब्राह्मणस्य हरिश्चन्द्रोपाख्यानम्, केनोपनिषदः, कठोपनिषदः, श्रीमद्भागवतम्, पञ्चतन्त्रम्, आर्यशूरकृत जातकमाला तथा हरिषेणकृत प्रयागप्रशस्तिः इत्यादीनि चम्पूशैलीविकासस्य प्राचीनानि निदर्शनानि सन्ति। दण्डिना “गद्यपद्यमयी चम्पूः” इति स्पष्टतया उक्तम्, येन अस्य साहित्यरूपस्य शास्त्रीयस्वरूपं प्रतिष्ठितम्।
अग्निपुराणे मिश्रकाव्यस्य सिद्धान्तात्मकविवेचनं प्राप्तं, तथा करम्भक-विरूद-घोषणा-आज्ञापत्र इत्यादयः तस्य उपभेदाः निर्दिष्टाः। परवर्ती काले चम्पूकाव्यस्य विशेषविकासः दक्षिणभारते अभवत्, यत्र संस्कृत-तमिल-तेलुगु-मलयालमादिषु भाषासु अस्य समृद्धा परम्परा विकसिताभूत्। वर्ण्यविषयाधारेण रामायणाधारित-महाभारताधारित-पुराणाधारित-जैनग्रन्थाधारित-महापुरुषचरिताधारित-यात्राप्रबन्धाधारित –देवतामाहात्म्याधारित-दार्शनिक-काल्पनिककथाधारित इति नवधा चम्पूकाव्यवर्गीकरणं कर्तुं शक्यते। अतः चम्पूकाव्यपरम्परा संस्कृतसाहित्यस्य कलात्मकवैविध्यं, भाषिकसौष्ठवं, तथा कथात्मकसमृद्धिं सम्यक् उद्घाटयति।
